Wildebeest analysis examples for:   san-sandev   ण    February 25, 2023 at 01:08    Script wb_pprint_html.py   by Ulf Hermjakob

23214  MAT 1:1  इब्राहीमः सन्तानो दायूद् तस्य सन्तानो यीशुख्रीष्टस्तस्य पूर्व्वपुरुषवंशश्रेणी।
23216  MAT 1:3  तस्माद् यिहूदातस्तामरो गर्भे पेरस्सेरहौ जज्ञाते, तस्य पेरसः पुत्रो हिष्रोण् तस्य पुत्रो ऽराम्।
23231  MAT 1:18  यीशुख्रीष्टस्य जन्म कथ्थते। मरियम् नामिका कन्या यूषफे वाग्दत्तासीत्, तदा तयोः सङ्गमात् प्राक् सा कन्या पवित्रेणात्मना गर्भवती बभूव।
23237  MAT 1:24  अनन्तरं यूषफ् निद्रातो जागरित उत्थाय परमेश्वरीयदूतस्य निदेशानुसारेण निजां जायां जग्राह,
23240  MAT 2:2  यो यिहूदीयानां राजा जातवान्, स कुत्रास्ते? वयं पूर्व्वस्यां दिशि तिष्ठन्तस्तदीयां तारकाम् अपश्याम तस्मात् तं प्रणन्तुम् अागमाम।
23246  MAT 2:8  अपरं तान् बैत्लेहमं प्रहीत्य गदितवान्, यूयं यात, यत्नात् तं शिशुम् अन्विष्य तदुद्देशे प्राप्ते मह्यं वार्त्तां दास्यथ, ततो मयापि गत्वा स प्रणंस्यते।
23249  MAT 2:11  ततो गेहमध्य प्रविश्य तस्य मात्रा मरियमा साद्धं तं शिशुं निरीक्षय दण्डवद् भूत्वा प्रणेमुः, अपरं स्वेषां घनसम्पत्तिं मोचयित्वा सुवर्णं कुन्दुरुं गन्धरमञ्च तस्मै दर्शनीयं दत्तवन्तः।
23250  MAT 2:12  पश्चाद् हेरोद् राजस्य समीपं पुनरपि गन्तुं स्वप्न ईश्वरेण निषिद्धाः सन्तो ऽन्येन पथा ते निजदेशं प्रति प्रतस्थिरे।
23253  MAT 2:15  गत्वा च हेरोदो नृपते र्मरणपर्य्यन्तं तत्र देशे न्युवास, तेन मिसर्देशादहं पुत्रं स्वकीयं समुपाहूयम्। यदेतद्वचनम् ईश्वरेण भविष्यद्वादिना कथितं तत् सफलमभूत्।
23254  MAT 2:16  अनन्तरं हेरोद् ज्योतिर्विद्भिरात्मानं प्रवञ्चितं विज्ञाय भृशं चुकोप; अपरं ज्योतिर्व्विद्भ्यस्तेन विनिश्चितं यद् दिनं तद्दिनाद् गणयित्वा द्वितीयवत्सरं प्रविष्टा यावन्तो बालका अस्मिन् बैत्लेहम्नगरे तत्सीममध्ये चासन्, लोकान् प्रहित्य तान् सर्व्वान् घातयामास।
23255  MAT 2:17  अतः अनेकस्य विलापस्य निनाद: क्रन्दनस्य च। शोकेन कृतशब्दश्च रामायां संनिशम्यते। स्वबालगणहेतोर्वै राहेल् नारी तु रोदिनी। न मन्यते प्रबोधन्तु यतस्ते नैव मन्ति हि॥
23270  MAT 3:9  किन्त्वस्माकं तात इब्राहीम् अस्तीति स्वेषु मनःसु चीन्तयन्तो मा व्याहरत। यतो युष्मान् अहं वदामि, ईश्वर एतेभ्यः पाषाणेभ्य इब्राहीमः सन्तानान् उत्पादयितुं शक्नोति।
23273  MAT 3:12  तस्य कारे सूर्प आस्ते, स स्वीयशस्यानि सम्यक् प्रस्फोट्य निजान् सकलगोधूमान् संगृह्य भाण्डागारे स्थापयिष्यति, किंन्तु सर्व्वाणि वुषाण्यनिर्व्वाणवह्निना दाहयिष्यति।
23277  MAT 3:16  अनन्तरं यीशुरम्मसि मज्जितुः सन् तत्क्षणात् तोयमध्याद् उत्थाय जगाम, तदा जीमूतद्वारे मुक्ते जाते, स ईश्वरस्यात्मानं कपोतवद् अवरुह्य स्वोपर्य्यागच्छन्तं वीक्षाञ्चक्रे।
23279  MAT 4:1  ततः परं यीशुः प्रतारकेण परीक्षितो भवितुम् आत्मना प्रान्तरम् आकृष्टः
23281  MAT 4:3  तदानीं परीक्षिता तत्समीपम् आगत्य व्याहृतवान्, यदि त्वमीश्वरात्मजो भवेस्तर्ह्याज्ञया पाषाणानेतान् पूपान् विधेहि।
23283  MAT 4:5  तदा प्रतारकस्तं पुण्यनगरं नीत्वा मन्दिरस्य चूडोपरि निधाय गदितवान्,
23284  MAT 4:6  त्वं यदिश्वरस्य तनयो भवेस्तर्हीतोऽधः पत, यत इत्थं लिखितमास्ते, आदेक्ष्यति निजान् दूतान् रक्षितुं त्वां परमेश्वरः। यथा सर्व्वेषु मार्गेषु त्वदीयचरणद्वये। न लगेत् प्रस्तराघातस्त्वां घरिष्यन्ति ते करैः॥
23286  MAT 4:8  अनन्तरं प्रतारकः पुनरपि तम् अत्युञ्चधराधरोपरि नीत्वा जगतः सकलराज्यानि तदैश्वर्य्याणि च दर्शयाश्चकार कथयाञ्चकार च,
23287  MAT 4:9  यदि त्वं दण्डवद् भवन् मां प्रणमेस्तर्ह्यहम् एतानि तुभ्यं प्रदास्यामि।
23288  MAT 4:10  तदानीं यीशुस्तमवोचत्, दूरीभव प्रतारक, लिखितमिदम् आस्ते, "त्वया निजः प्रभुः परमेश्वरः प्रणम्यः केवलः स सेव्यश्च।"
23289  MAT 4:11  ततः प्रतारकेण स पर्य्यत्याजि, तदा स्वर्गीयदूतैरागत्य स सिषेवे।
23296  MAT 4:18  ततः परं यीशु र्गालीलो जलधेस्तटेन गच्छन् गच्छन् आन्द्रियस्तस्य भ्राता शिमोन् अर्थतो यं पितरं वदन्ति एतावुभौ जलघौ जालं क्षिपन्तौ ददर्श, यतस्तौ मीनधारिणावास्ताम्।
23297  MAT 4:19  तदा स तावाहूय व्याजहार, युवां मम पश्चाद् आगच्छतं, युवामहं मनुजधारिणौ करिष्यामि।
23299  MAT 4:21  अनन्तरं तस्मात् स्थानात् व्रजन् व्रजन् सिवदियस्य सुतौ याकूब् योहन्नामानौ द्वौ सहजौ तातेन सार्द्धं नौकोपरि जालस्य जीर्णोद्धारं कुर्व्वन्तौ वीक्ष्य तावाहूतवान्।
23300  MAT 4:22  तत्क्षणात् तौ नावं स्वतातञ्च विहाय तस्य पश्चाद्गामिनौ बभूवतुः।
23302  MAT 4:24  तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।
23313  MAT 5:10  धर्म्मकारणात् ताडिता मनुजा धन्या, यस्मात् स्वर्गीयराज्ये तेषामधिकरो विद्यते।
23316  MAT 5:13  युयं मेदिन्यां लवणरूपाः, किन्तु यदि लवणस्य लवणत्वम् अपयाति, तर्हि तत् केन प्रकारेण स्वादुयुक्तं भविष्यति? तत् कस्यापि कार्य्यस्यायोग्यत्वात् केवलं बहिः प्रक्षेप्तुं नराणां पदतलेन दलयितुञ्च योग्यं भवति।
23318  MAT 5:15  अपरं मनुजाः प्रदीपान् प्रज्वाल्य द्रोणाधो न स्थापयन्ति, किन्तु दीपाधारोपर्य्येव स्थापयन्ति, तेन ते दीपा गेहस्थितान् सकलान् प्रकाशयन्ति।
23319  MAT 5:16  येन मानवा युष्माकं सत्कर्म्माणि विलोक्य युष्माकं स्वर्गस्थं पितरं धन्यं वदन्ति, तेषां समक्षं युष्माकं दीप्तिस्तादृक् प्रकाशताम्।
23324  MAT 5:21  अपरञ्च त्वं नरं मा वधीः, यस्मात् यो नरं हन्ति, स विचारसभायां दण्डार्हो भविष्यति, पूर्व्वकालीनजनेभ्य इति कथितमासीत्, युष्माभिरश्रावि।
23325  MAT 5:22  किन्त्वहं युष्मान् वदामि, यः कश्चित् कारणं विना निजभ्रात्रे कुप्यति, स विचारसभायां दण्डार्हो भविष्यति; यः कश्चिच्च स्वीयसहजं निर्ब्बोधं वदति, स महासभायां दण्डार्हो भविष्यति; पुनश्च त्वं मूढ इति वाक्यं यदि कश्चित् स्वीयभ्रातरं वक्ति, तर्हि नरकाग्नौ स दण्डार्हो भविष्यति।
23326  MAT 5:23  अतो वेद्याः समीपं निजनैवेद्ये समानीतेऽपि निजभ्रातरं प्रति कस्माच्चित् कारणात् त्वं यदि दोषी विद्यसे, तदानीं तव तस्य स्मृति र्जायते च,
23328  MAT 5:25  अन्यञ्च यावत् विवादिना सार्द्धं वर्त्मनि तिष्ठसि, तावत् तेन सार्द्धं मेलनं कुरु; नो चेत् विवादी विचारयितुः समीपे त्वां समर्पयति विचारयिता च रक्षिणः सन्निधौ समर्पयति तदा त्वं कारायां बध्येथाः।
23332  MAT 5:29  तस्मात् तव दक्षिणं नेत्रं यदि त्वां बाधते, तर्हि तन्नेत्रम् उत्पाट्य दूरे निक्षिप, यस्मात् तव सर्व्ववपुषो नरके निक्षेपात् तवैकाङ्गस्य नाशो वरं।
23333  MAT 5:30  यद्वा तव दक्षिणः करो यदि त्वां बाधते, तर्हि तं करं छित्त्वा दूरे निक्षिप, यतः सर्व्ववपुषो नरके निक्षेपात् एकाङ्गस्य नाशो वरं।
23342  MAT 5:39  किन्त्वहं युष्मान् वदामि यूयं हिंसकं नरं मा व्याघातयत। किन्तु केनचित् तव दक्षिणकपोले चपेटाघाते कृते तं प्रति वामं कपोलञ्च व्याघोटय।
23349  MAT 5:46  ये युष्मासु प्रेम कुर्व्वन्ति, यूयं यदि केवलं तेव्वेव प्रेम कुरुथ, तर्हि युष्माकं किं फलं भविष्यति? चण्डाला अपि तादृशं किं न कुर्व्वन्ति?
23350  MAT 5:47  अपरं यूयं यदि केवलं स्वीयभ्रातृत्वेन नमत, तर्हि किं महत् कर्म्म कुरुथ? चण्डाला अपि तादृशं किं न कुर्व्वन्ति?
23351  MAT 5:48  तस्मात् युष्माकं स्वर्गस्थः पिता यथा पूर्णो भवति, यूयमपि तादृशा भवत।
23354  MAT 6:3  किन्तु त्वं यदा ददासि, तदा निजदक्षिणकरो यत् करोति, तद् वामकरं मा ज्ञापय।
23356  MAT 6:5  अपरं यदा प्रार्थयसे, तदा कपटिनइव मा कुरु, यस्मात् ते भजनभवने राजमार्गस्य कोणे तिष्ठन्तो लोकान् दर्शयन्तः प्रार्थयितुं प्रीयन्ते; अहं युष्मान् तथ्यं वदामि, ते स्वकीयफलं प्राप्नुवन्।
23367  MAT 6:16  अपरम् उपवासकाले कपटिनो जना मानुषान् उपवासं ज्ञापयितुं स्वेषां वदनानि म्लानानि कुर्व्वन्ति, यूयं तइव विषणवदना मा भवत; अहं युष्मान् तथ्यं वदामि ते स्वकीयफलम् अलभन्त।
23376  MAT 6:25  अपरम् अहं युष्मभ्यं तथ्यं कथयामि, किं भक्षिष्यामः? किं पास्यामः? इति प्राणधारणाय मा चिन्तयत; किं परिधास्यामः? इति कायरक्षणाय न चिन्तयत; भक्ष्यात् प्राणा वसनाञ्च वपूंषि किं श्रेष्ठाणि न हि?
23377  MAT 6:26  विहायसो विहङ्गमान् विलोकयत; तै र्नोप्यते न कृत्यते भाण्डागारे न सञ्चीयतेऽपि; तथापि युष्माकं स्वर्गस्थः पिता तेभ्य आहारं वितरति।
23378  MAT 6:27  यूयं तेभ्यः किं श्रेष्ठा न भवथ? युष्माकं कश्चित् मनुजः चिन्तयन् निजायुषः क्षणमपि वर्द्धयितुं शक्नोति?
23379  MAT 6:28  अपरं वसनाय कुतश्चिन्तयत? क्षेत्रोत्पन्नानि पुष्पाणि कथं वर्द्धन्ते तदालोचयत। तानि तन्तून् नोत्पादयन्ति किमपि कार्य्यं न कुर्व्वन्ति;
23386  MAT 7:1  यथा यूयं दोषीकृता न भवथ, तत्कृतेऽन्यं दोषिणं मा कुरुत।
23387  MAT 7:2  यतो यादृशेन दोषेण यूयं परान् दोषिणः कुरुथ, तादृशेन दोषेण यूयमपि दोषीकृता भविष्यथ, अन्यञ्च येन परिमाणेन युष्माभिः परिमीयते, तेनैव परिमाणेन युष्मत्कृते परिमायिष्यते।
23388  MAT 7:3  अपरञ्च निजनयने या नासा विद्यते, ताम् अनालोच्य तव सहजस्य लोचने यत् तृणम् आस्ते, तदेव कुतो वीक्षसे?
23389  MAT 7:4  तव निजलोचने नासायां विद्यमानायां, हे भ्रातः, तव नयनात् तृणं बहिष्यर्तुं अनुजानीहि, कथामेतां निजसहजाय कथं कथयितुं शक्नोषि?
23390  MAT 7:5  हे कपटिन्, आदौ निजनयनात् नासां बहिष्कुरु ततो निजदृष्टौ सुप्रसन्नायां तव भ्रातृ र्लोचनात् तृणं बहिष्कर्तुं शक्ष्यसि।
23391  MAT 7:6  अन्यञ्च सारमेयेभ्यः पवित्रवस्तूनि मा वितरत, वराहाणां समक्षञ्च मुक्ता मा निक्षिपत; निक्षेपणात् ते ताः सर्व्वाः पदै र्दलयिष्यन्ति, परावृत्य युष्मानपि विदारयिष्यन्ति।
23394  MAT 7:9  आत्मजेन पूपे प्रार्थिते तस्मै पाषाणं विश्राणयति,
23398  MAT 7:13  सङ्कीर्णद्वारेण प्रविशत; यतो नरकगमनाय यद् द्वारं तद् विस्तीर्णं यच्च वर्त्म तद् बृहत् तेन बहवः प्रविशन्ति।
23399  MAT 7:14  अपरं स्वर्गगमनाय यद् द्वारं तत् कीदृक् संकीर्णं। यच्च वर्त्म तत् कीदृग् दुर्गमम्। तदुद्देष्टारः कियन्तोऽल्पाः।
23401  MAT 7:16  मनुजाः किं कण्टकिनो वृक्षाद् द्राक्षाफलानि शृगालकोलितश्च उडुम्बरफलानि शातयन्ति?
23407  MAT 7:22  तद् दिने बहवो मां वदिष्यन्ति, हे प्रभो हे प्रभो, तव नाम्ना किमस्मामि र्भविष्यद्वाक्यं न व्याहृतं? तव नाम्ना भूताः किं न त्याजिताः? तव नाम्ना किं नानाद्भुतानि कर्म्माणि न कृतानि?
23408  MAT 7:23  तदाहं वदिष्यामि, हे कुकर्म्मकारिणो युष्मान् अहं न वेद्मि, यूयं मत्समीपाद् दूरीभवत।
23409  MAT 7:24  यः कश्चित् ममैताः कथाः श्रुत्वा पालयति, स पाषाणोपरि गृहनिर्म्मात्रा ज्ञानिना सह मयोपमीयते।
23410  MAT 7:25  यतो वृष्टौ सत्याम् आप्लाव आगते वायौ वाते च तेषु तद्गेहं लग्नेषु पाषाणोपरि तस्य भित्तेस्तन्न पतति।
23416  MAT 8:2  एकः कुष्ठवान् आगत्य तं प्रणम्य बभाषे, हे प्रभो, यदि भवान् संमन्यते, तर्हि मां निरामयं कर्त्तुं शक्नोति।
23417  MAT 8:3  ततो यीशुः करं प्रसार्य्य तस्याङ्गं स्पृशन् व्याजहार, सम्मन्येऽहं त्वं निरामयो भव; तेन स तत्क्षणात् कुष्ठेनामोचि।
23418  MAT 8:4  ततो यीशुस्तं जगाद, अवधेहि कथामेतां कश्चिदपि मा ब्रूहि, किन्तु याजकस्य सन्निधिं गत्वा स्वात्मानं दर्शय मनुजेभ्यो निजनिरामयत्वं प्रमाणयितुं मूसानिरूपितं द्रव्यम् उत्सृज च।
23426  MAT 8:12  किन्तु यत्र स्थाने रोदनदन्तघर्षणे भवतस्तस्मिन् बहिर्भूततमिस्रे राज्यस्य सन्ताना निक्षेस्यन्ते।
23427  MAT 8:13  ततः परं यीशुस्तं शतसेनापतिं जगाद, याहि, तव प्रतीत्यनुसारतो मङ्गलं भूयात्; तदा तस्मिन्नेव दण्डे तदीयदासो निरामयो बभूव।
23428  MAT 8:14  अनन्तरं यीशुः पितरस्य गेहमुपस्थाय ज्वरेण पीडितां शयनीयस्थितां तस्य श्वश्रूं वीक्षाञ्चक्रे।
23438  MAT 8:24  पश्चात् सागरस्य मध्यं तेषु गतेषु तादृशः प्रबलो झञ्भ्शनिल उदतिष्ठत्, येन महातरङ्ग उत्थाय तरणिं छादितवान्, किन्तु स निद्रित आसीत्।
23439  MAT 8:25  तदा शिष्या आगत्य तस्य निद्राभङ्गं कृत्वा कथयामासुः, हे प्रभो, वयं म्रियामहे, भवान् अस्माकं प्राणान् रक्षतु।
23441  MAT 8:27  अपरं मनुजा विस्मयं विलोक्य कथयामासुः, अहो वातसरित्पती अस्य किमाज्ञाग्राहिणौ? कीदृशोऽयं मानवः।
23442  MAT 8:28  अनन्तरं स पारं गत्वा गिदेरीयदेशम् उपस्थितवान्; तदा द्वौ भूतग्रस्तमनुजौ श्मशानस्थानाद् बहि र्भूत्वा तं साक्षात् कृतवन्तौ, तावेतादृशौ प्रचण्डावास्तां यत् तेन स्थानेन कोपि यातुं नाशक्नोत्।
23444  MAT 8:30  तदानीं ताभ्यां किञ्चिद् दूरे वराहाणाम् एको महाव्रजोऽचरत्।
23445  MAT 8:31  ततो भूतौ तौ तस्यान्तिके विनीय कथयामासतुः, यद्यावां त्याजयसि, तर्हि वराहाणां मध्येव्रजम् आवां प्रेरय।
23450  MAT 9:2  ततः कतिपया जना एकं पक्षाघातिनं स्वट्टोपरि शाययित्वा तत्समीपम् आनयन्; ततो यीशुस्तेषां प्रतीतिं विज्ञाय तं पक्षाघातिनं जगाद, हे पुत्र, सुस्थिरो भव, तव कलुषस्य मर्षणं जातम्।
23453  MAT 9:5  तव पापमर्षणं जातं, यद्वा त्वमुत्थाय गच्छ, द्वयोरनयो र्वाक्ययोः किं वाक्यं वक्तुं सुगमं?
23455  MAT 9:7  ततः स तत्क्षणाद् उत्थाय निजगेहं प्रस्थितवान्।
23456  MAT 9:8  मानवा इत्थं विलोक्य विस्मयं मेनिरे, ईश्वरेण मानवाय सामर्थ्यम् ईदृशं दत्तं इति कारणात् तं धन्यं बभाषिरे च।
23458  MAT 9:10  ततः परं यीशौ गृहे भोक्तुम् उपविष्टे बहवः करसंग्राहिणः कलुषिणश्च मानवा आगत्य तेन साकं तस्य शिष्यैश्च साकम् उपविविशुः।